सञ्जीविनीटीका (मल्लिनाथः)
श्रिय इति॥ कीदृशं विष्णुम्? पद्मे निषण्णाया उपविष्टायाः श्रियः क्षौमन्तरिता दुकूलव्यवहिता मेखला यस्य तस्मिन्। आस्तीर्णौ करपल्लवौ वाणिपल्लवौ यस्मिन्। विशेषणद्वयेनापि चरणयोः सौकुमार्यात्कटिमेखलास्पर्शासहत्वं सूच्यते। तस्मिन्नङ्के निक्षिप्तौ चरणौ येन तम् ॥