१०.६७
राम इत्यभिरामेण वपुषा तस्य चोदितः ।
नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥
सञ्जीविनीटीका (मल्लिनाथः) राम इति॥ अभिरमन्तेऽत्रेत्यभिरामं मनोहरम्। अधिकरणार्थे घञ्प्रत्ययः। तेन वपुषा चोदितः प्रेरितो गुरुः पिता दशरथस्तस्य पुत्रस्य जगतां प्रथमं मङ्गलं सुलक्षणं राम इति नामधेयं चक्रे। अभिरामत्वमेव रामशब्दप्रवृत्तिनिमित्तमित्यर्थः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रात्यभि रा मे
पु षास्य चोदि तः
ना धे यंगु रु श्च क्रे
त्प्रङ्ग लम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.