१०.६६
अथाग्र्यमहिषीं राज्ञः प्रसूतिसमये सती ।
पुत्रं तमोपहं लेभे नक्तं ज्योतिरिवौषधिः ॥
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथ राज्ञो दशरथस्य सती पतिव्रता। अग्र्या चासौ महिषी चाग्र्यमहिषी कौसल्या। प्रसूतिसमये प्रसूतिकाले। ओषधिर्नक्तं रात्रिसमये तमोऽपहन्तीति तमोपहम्। अपे क्लेशतमसोः (अष्टाध्यायी ३.२.५० ) इति ङप्रत्ययः। ज्योतिरिव। तमोपहं तमोनाशकरं पुत्रं लेभे प्राप॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
थाग्र्यहि षीं रा ज्ञः
प्र सूति ये ती
पु त्रं मो हं ले भे
क्तं ज्योतिरि वौ धिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.