१०.५७
सा हि प्रणयवत्यासीत्सपतन्योरुभयोरपि ।
भ्रमरी वारणस्येव मदनिस्यन्दरेखयोः ॥
सञ्जीविनीटीका (मल्लिनाथः) सेति॥ सा सुमित्रा। उभयोरपि। समान एकः पतिर्ययोस्तयोः सपत्नयोः। नित्यं सपत्न्यादिषु (अष्टाध्यायी ४.१.३५ ) इति ङीप्। नकारादेशश्च। भ्रमरी भृङ्गाङ्गना वारणस्य गजस्य मदनिस्यन्दरेखयोरिव गण्डद्वयगतयोरिति भावः। प्रणयवती प्रेमवत्यासीत्। सपत्न्योः इत्यत्र समासान्तर्गतस्य पत्युरुपमानं वारणस्य इति ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सा हिप्र त्या सी
त्स न्योरु योपि
भ्र री वा स्ये
नि स्यन्द रे योः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.