१०.५६
ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीक्षितः ।
चरोरर्धार्धभागाभ्यां तामयोजयतामुभे ॥
सञ्जीविनीटीका (मल्लिनाथः) ते इति॥ बहुज्ञस्य सर्वज्ञस्य। उचितज्ञस्येत्यर्थः। पत्युर्महीक्षितः क्षितीश्वरस्य। विशेषणत्रयेण राज्ञोऽनुसरणीयतामाह-चित्तज्ञे अभिप्रायज्ञे ते उभे पत्न्यौ कौसल्या-कैकेय्यौ। चरोर्यावर्धभागौ समभागौ तयोर्यावर्धौ तौ च तौ भागौ चेत्यर्धभागावेकदेशौ। ताभ्यामर्धभागौ समभागौ तयोर्यावर्धौ तौ च तौ भागौ चेत्यर्धभागावेकदेशौ। ताभ्यामर्धार्धभागाभ्याम्। पुंस्यर्धोऽर्धं समेंऽशके इत्यमरः (अमरकोशः १.३.१८ ) । तां सुमित्रामयोजयतां युक्तां चक्रतुः। अयं च विभागो न रामायणसंवादी; तत्र चरोरर्धं कौसल्याया अविशिष्टार्धं कैकेय्यै शिष्टं पुनः सुमित्राया इत्यभिधानात्। किंतु पुराणान्तरसंवादो द्रष्टव्यः। उक्तं च नारसिंहे-ते पिण्‍डप्राशने काले सुमित्रायै महीपतेः। पिण्डाभ्यामल्पमल्पं तु स्वभगिन्यै प्रयच्छतः॥ इति। एवमन्यत्रापि विरेधे पुराणान्तरात्समाधातव्यम् ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ते हु ज्ञस्य चि त्त ज्ञे
त्न्यौ त्युर्म हीक्षि तः
रो र्धार्ध भा गा भ्यां
ता यो तामु भे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.