१०.५५
अर्चिता तस्य कौसल्या प्रिया केकयवंशजा ।
अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः ॥
सञ्जीविनीटीका (मल्लिनाथः) अर्चितेति॥ तस्य राज्ञः। कौ पृथिव्यां सलति गच्छतीति कोसलः। सलगतौपचाद्यच्। कुशब्दस्य पृषोदरादित्वाद्गुणः। कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या। वृद्धेत्कोसलाजादाञ्ञ्यङ् (अष्टाध्यायी ४.१.१७१ ) इति ञ्यङ्, यङश्चाप् (अष्टाध्यायी ४.१.७४ ) इति चाप्। अत एव सूत्रे निर्देशात् कोसलशब्दो दन्त्यसकारमध्यमः। अर्चिता ज्येष्टा मान्या। केकयवंशजा कैकेयी। प्रियेष्टा। अतो हेतोः, ईश्वरो भर्ता नृपः सुमित्रां ताभ्यां कौसल्या-कैकेयीभ्यां संभावितां भागदानेन मानितामैच्छदिच्छति स्म। एवं च सामान्यं तिसृणां च भागप्रापणमिति राज्ञ्युचितज्ञता कौशलं च लभ्यते ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्चि तास्य कौ ल्या
प्रि या के वं जा
तः सं भावि तां ता भ्यां
सु मि त्रा मैच्छ दीश्व रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.