१०.४७
मोक्ष्यध्वे स्वर्गब्दीनां वेणीबन्धानदूषितान् ।
शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः ॥
सञ्जीविनीटीका (मल्लिनाथः) मोक्ष्यध्व इति॥ हे देवाः! यूयं शापेन नलकूबरशापेन यन्त्रिताः प्रतिबद्धाः पौलस्त्यस्य रावणस्य बलात्कारेण ये कचग्रहाः केशाकर्षास्तैरदूषिताननुपहतान् स्वर्गबन्दीनां हृतस्वर्गाङ्गनानां वेणीबन्धान् मोक्ष्यध्वे। पुरा किल नलकूबरेणात्मानमभिसरन्त्या रम्भाया बलात्कारेण संभोगात्क्रुद्धेन दुरात्मा रावणः शप्तः-स्त्रीणां बलाद्ग्रहणे मूर्धा ते शतधा भविष्यति-इति भारतीया कथानुसंधेया ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मो क्ष्य ध्वे स्व र्ग ब्दी नां
वे णी न्धा दूषि तान्
शान्त्रि पौस्त्य
ला त्काग्र हैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.