१०.३९
विदितं तप्यमानं च तेन मे भुवनत्रयम् ।
अकामोपनतेनेव साधोर्हृदयमेनसा ॥
सञ्जीविनीटीका (मल्लिनाथः) विदितमिति॥ किंच, अकामेनानिच्छयोपनतेन प्रमादादागतेनैनसा पापेन साधोः सज्जनस्य हृदयमिव। तेन रक्षसा तप्यमानं संतप्यमानम्। तपेर्भौवादिकात्कर्मणि शानच्। भुवनत्रयं च मे विदितम्। मया ज्ञायत इत्यर्थः। मतिबुद्धि- (अष्टाध्यायी ३.२.१८८ ) इत्यादिना वर्तमाने क्तः। क्तस्य च वर्तमाने (अष्टाध्यायी २.३.६७ ) इति षष्टी॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
विदि तंप्य मा नं
ते मेभुत्र यम्
का मो ते ने
सा धोर्हृ मे सा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.