१०.१४
योगनिद्रान्तविशदैः पावनैरवलोकनैः ।
भृग्वादीननुगृह्णन्तं सौखशायनिकानृषीन् ॥
सञ्जीविनीटीका (मल्लिनाथः) योगेति॥ योगो मनसो विषयान्तरव्यावृत्तिः, तद्रूपा या निद्रा तस्या अन्तेऽवसाने विशदैः प्रसन्नैः पावनैः शोधनैरवलोकनैः। सुखशयनं पृच्छन्तीति सौखशायनिकास्तान्। पृच्छतौ सुस्नातादिभअयः(वा.२९४३)इत्युपसंख्यानाटुक्प्रत्ययः। भृग्वादीनृषीननुगृह्णन्तम् ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यो नि द्रान्तवि दैः
पा नै लो नैः
भृ ग्वा दीनु गृ ह्ण न्तं
सौ शानि कानृ षीन्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.