१०.१३
मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा ।
उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता ॥
सञ्जीविनीटीका (मल्लिनाथः) मुक्तेति॥ मुक्तो भगवत्संनिधानात्त्यक्तः शेषेणाहीश्वरेण सह विरोधः सहजमपि वैरं येन तेन। कुलिशव्रणा अमृताहरणकाल इन्द्रयुद्धे ये वज्रप्रहारास्त एव लक्ष्माणि यस्य स तेन। प्रबद्धोऽञ्जलिर्येन तेन प्राञ्जलिना। कृताञ्जलिनेत्यर्थः। विनीतेनानुद्धतेन गरुत्मतोपस्थितमुपासितम्। पुरा किल मातलिप्रार्थितेन भगवता तद्दुहितुर्गुणकेश्याः पत्युः कस्यचित्सर्पस्य गरुडादभयदाने कृते स्वविपक्षरक्षणक्षुभितं पक्षिराजं त्वद्वोढाऽहं त्वत्तो बलाढ्यः इति गर्वितं स्ववामतर्जनीभारेणैव भङ्यक्त्वा भगवान्विनिनायेति महाभारतीयां कथां सूचयति विनीतेनइत्यनेन ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मुक्त शेवि रो धे
कुलिव्रक्ष्म णा
स्थि तं प्राञ्जलि ना
वि नी ते रुत्म ता
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.