१०.१२
दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः ।
हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम् ॥
सञ्जीविनीटीका (मल्लिनाथः) दैत्येति॥ दैत्यस्त्रीगण्डलेखानामसुराङ्गनागण्डस्थलीनां यो मदरागस्तं विलुम्पन्ति हरन्तीति मदरागविलोपिनः। तैश्चेतनावद्भिः सजीवैर्हेतिभिः सुदर्शनादिभिः शश्त्रैः। रवेरर्चिश्च शश्त्रं च वह्निज्वाला च हेतयः। इत्यमरः। उदीरितजयस्वनम्। जयशब्दमुद्धोषयन्तीभिर्मूर्तिमतीभिरस्त्रदेवताभिरुपास्यमानमित्यर्थः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दै त्य स्त्रीण्ड ले खा नां
रावि लोपि भिः
हेति भि श्चे नाद्भि
रु दीरिस्व नम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.