१०.२
न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् ।
सुताभिधानं स ज्योतिः सद्यः शोकतमोपहम् ॥
सञ्जीविनीटीका (मल्लिनाथः) न चेति॥ स दशरथथः पूर्वेषां पितॄणामृणनिर्मोक्षसाधनम्। एष वा अनृणो यः पुत्री इति श्रुतेः। पितॄणामृणनिर्मुक्तिकारणम्। सद्यः शोक एव तमस्तदपहन्तीति शोकतमोपहम्। अत्रअभयंकर इतिवदुपपदेऽपि तदन्तविधिमाश्रित्य अपे क्लेशतमसोः (अष्टाध्यायी ३.२.५० ) इति डप्रत्ययः। सुताभिधानं सुताख्यं ज्योतिर्नोपलेमे न प्राप च ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
चो ले भे पू र्वे षा
मृ नि र्मोक्ष सा नम्
सु ताभि धा नं ज्यो तिः
द्यः शो मो हम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.