१.६६
नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः ।
न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥
सञ्जीविनीटीका (मल्लिनाथः) नूनमिति॥ मत्तः परं मदनन्तरम्। पञ्चम्यास्तसिल् (अष्टाध्यायी ५.३.७ ) । पिण्डविच्छेददर्शिनः पिण्डदानविच्छेदमुत्प्रेक्षमाणाः। वंशे भवा वंश्याः पितरः। स्वधेत्यव्ययं पितृभोज्ये वर्तते। तस्याः संग्रहे तत्परा आसक्ताः सन्तः श्राद्धे पितृकर्मणि। पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः इत्यमरः (अमरकोशः २.७.३३ ) । प्रकामभुजः पर्याप्तभोजिनो न भवन्ति नूनं सत्यम्। कामं प्रकामं पर्याप्तम् इत्यमरः (अमरकोशः २.७.३३ ) । निर्धना ह्यापद्धनं कियदपि संगृह्णन्तीति भावः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नू नं त्तः रं वं श्याः
पिण्ड वि च्छेर्शि नः
प्र काभु जः श्रा द्धे
स्व धा संग्रत्प राः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.