१.६०
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।
दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥
सञ्जीविनीटीका (मल्लिनाथः) उपपन्नमिति॥ हे गुरो! सप्तस्वङ्गेषु स्वाम्यमात्यादिषु । स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च । सप्ताङ्गानि इत्यमरः (अमरकोशः ३.३.२६३ ) । शिवं कुशलमुपपन्नं ननु युक्तमेव। नन्ववधारणे। प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु इत्यमरः (अमरकोशः ३.३.२६३ ) । कथमित्यत्राह-यस्य मे दैवीनां देवेभ्य आगतानां दुर्भिक्षादीनाम्, मानुषीणां मनुष्येभ्य आगतानां चौरभयादीनाम्। उभयत्रापि तत आगतः (अष्टाध्यायी ४.३.७४ ) इत्यण्। टिड्ढाणञ्- (अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप्। आपदां व्यसनानां त्वं प्रतिहर्ता वारयिताऽसि। अत्राह कामन्दकः-हुताशनो जलं व्याधिर्दुर्भिक्षं मरणं तथा। इति पञ्चविधं दैवं मानुषं व्यसनं ततः ॥ आयुक्तकेभ्यश्चौरेभ्यः परेभ्यो राजवल्लभात्। पृथिवीपतिलोभाञ्च नराणां पञ्चधा मतम् ॥इति ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्नंनुशि वं
प्त स्व ङ्गेषुस्य मे
दै वी नां मानु षी णां
प्रति र्तात्व मा दाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.