१.५९
अथाथर्वनिधेस्तस्य विजितारिपुरः पुरः ।
अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः ॥
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथ प्रश्नानन्तरं विजितारिपुरो विजितशत्रुनगरो वदतां वक्तॄणां वरः श्रेष्ठः। यतश्चनिर्धारणम् (अष्टाध्यायी २.३.४१ ) इति षष्टी। अर्थपती राजाथर्वणोऽथर्ववेदस्य निधेस्तस्य मुनेः पुरोऽग्रेऽर्थ्यामर्थामर्थादनपेताम्। धर्मपथ्यर्थन्यायादनपेते (अष्टाध्यायी ४.४.९२ ) इति यप्रत्ययः। वाचमादहे वक्तुमुपक्रान्तवानित्यर्थथः। अथर्वनिधेः इत्यनेन पुरोहितकृत्याभिज्ञत्वात्तत्कर्मनिर्वाहकत्वं मुनेरस्तीति सूच्यते। यथाह कामन्दकः-त्रय्यां च दण्डनीत्यां च कुशलः स्यात्पुरोहितः । अथर्वविहितं कुर्यान्नित्यं शान्तिकपौष्टिकम् ॥ इति ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
थार्वनि धे स्तस्य
विजि तारिपु रःपु रः
र्थ्यार्थ ति र्वा
मा दे तां रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.