१.५८
तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् ।
पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥
सञ्जीविनीटीका (मल्लिनाथः) तमिति॥ मुनिः। अतिथ्यर्थमातिथ्यम्। अतिथेर्ञ्यः (अष्टाध्यायी ५.४.२६ ) इति ञ्यप्रत्ययः। आतिथ्यस्य क्रिया तया शान्तो रथक्षोभेण यः परिश्रमः स यस्य स तं तथोक्तम्। राज्यमेवाश्रमस्तत्र मुनिम्। मुनितुल्यमित्यर्थः। तं दिलीपं राज्ये कुशलं पप्रच्छ। पृच्छतेस्तु द्विकर्मकत्वमित्युक्तम्। यद्यपि राज्य शब्दः पुरोहितादिष्वन्तर्गतत्वाद्राजकर्मवचनः, तथाप्यत्र सप्ताङ्गवचनः, उपपन्नं ननु शिवं सप्तस्वङ्गेषु(१।६०)इत्युत्तरविरोधात्। तथाह मनुः(९।१९४)- स्वाम्यमात्यपुरं राष्ट्रं कोशदण्डौ तथा सुह्रृत्। सप्तैतानि समस्तानि लोकेऽस्मिन्राज्यमुच्यते॥ इति। तत्र ब्रह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम्। वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ (२।१२७) इति मनुवचने सत्यपि तस्य राज्ञो महानुभावत्वाह्ब्राह्मणोचितः कुशलप्रश्न एव कृत इत्यनुसंधेयम्। अत एवोक्तम्-राज्याश्रममुनिम्इति ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मा ति थ्यक्रि या शान्त
क्षो रिश्र मम्
प्रच्छकु लं रा ज्ये
रा ज्याश्रमु निंमु निः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.