१.५७
तयोर्जगृहतुः पादान्राजा राज्ञी च मागधी ।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥
सञ्जीविनीटीका (मल्लिनाथः) तयोरिति॥ मागधी मगधराजपुत्री राज्ञी सुदक्षिणा राजा च तयोररुन्धतीवसिष्ठयोः पादाञ्जगृहतुः। पादः पदङ्गिश्चरणो।ञस्त्रियाम इत्यमरः। पादग्रहणमभिवादनम्। गुरुपत्नी गुरुश्च कर्तारौ सा च स च तौ सुदक्षिणादिलीपौ कर्मभूतौ प्रीत्या हर्षेण प्रतिननन्दतुः। आशीर्वदादिभिः संभावयांचक्रतुरित्यर्थः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
योर्जगृ तुः पा दा
न्रा जा रा ज्ञी मा धी
तौगु रुर्गुरु त्नी
प्री त्याप्रतिन्द तुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.