१.५६
विधेः सायंतनस्यान्ते स ददर्श तपोनिधिम् ।
अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ॥
सञ्जीविनीटीका (मल्लिनाथः) विधेरिति॥ स राजा सांयंतनस्य सायंभवस्य। सायंचिरम्- (अष्टाध्यायी ४.३.२३ ) इत्यादिना ट्युल्प्रत्ययः। विधेर्जपहोमाद्यनुष्ठानस्य। अन्तेऽवसानेऽरुन्धत्यान्वासितं पश्चादुपवेशनेनोपसेवितम्। कर्मणि क्तः। उपसर्गवशात्सकर्मकत्वम्। अन्वास्यैनाम् इत्यादिवदुपपद्यते। तपोनिधिं वसिष्टम्। स्वाहया स्वाहादेव्या। अथाग्नायी स्वाहा च हुतभुक्प्रिया इत्यमरः (अमरकोशः २.७.२३ ) । अन्वासितं हविर्भुजमिव। ददर्श। समित्पुष्पकुशागन्यम्बुमृदन्नाक्षतपाणिकः। जपं होमं च कुर्वाणो नाभिवाद्यो द्विजो भवेत् ॥ इत्यनुष्टानस्य मध्येऽभिवादननिषेधाद्विधेरन्ते ददर्शेत्युक्तम्। अन्वासितं चात्र पतिव्रताधर्मत्वेनोक्तं न तु कर्माङ्गत्वेन। विधेरन्ते इति कर्मणः समाप्त्यभिधानात् ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि धेः सा यं स्या न्ते
र्श पोनि धिम्
न्वासि रु न्ध त्या
स्वा ये विर्भु जम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.