१.४९
वनान्तरादुपावृत्तैः समित्कुशफलाहरैः ।
पूर्यमाणमदृश्याग्रिप्रत्युद्यातैस्तपस्विभिः ॥
सञ्जीविनीटीका (मल्लिनाथः) वनान्तरादिति॥ वनान्तरादन्यस्माद्वनात् उपावृत्तैः प्रत्यागतैः। समिधश्च कुशांश्च फलानि चाहर्तुं शीलं येषामिति समित्कुशफलाहराः, तैः। आङिताच्छील्ये (अष्टाध्यायी ३.२.११ ) इति हरतेराङ्पूर्वादच्प्रत्ययः। अदृश्यैर्दर्शनायोग्यैरग्निभिर्वैतानिकैः प्रत्युद्याताः प्रत्युद्गताः। तैस्तपस्विभिः पूर्यमाणम्। प्रोष्यागच्छतामाहिताग्नीनामग्नयः प्रत्युद्यान्ति इति श्रुतेः। यथाह-कामं पितरं प्रोषितवन्तं पुत्राः प्रत्याधावन्ति, एव ह वा एवमेतग्नयः प्रत्याधावन्ति सशकलान्दारूनिवाहरन् इति॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नान्त रादु पा वृ त्तैः
मित्कु ला रैः
पूर्य मा दृ श्याग्रि
प्र त्यु द्या तैस्तस्वि भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.