१.४४
ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम् ।
अमोघाः प्रतिगृह्णन्तावर्ध्यानुपदमाशिषः ॥
सञ्जीविनीटीका (मल्लिनाथः) ग्रामेष्विति॥ आत्मविसृष्टेषु स्वदत्तेषु। यूपो नाम संस्कृतः पशुबन्धाय दारुविशेषः। यूपा एव चिह्नानि येषां तेषु ग्रामेष्वमोघाः सफला यज्वनां विधिनेष्टवताम्। यज्वा तु विधिनेष्टवान् इत्यमरः (अमरकोशः २.७.१० ) सुयजोर्ड्वनिप् (अष्टाध्यायी ३.२.१०३ ) इति ङ्वनिप्र्रत्ययः। आशिष आशीर्वादान्। अर्घः पूजाविधिः, तदर्थं द्रव्यमर्ध्यम्। पादार्धाभ्यां च (अष्टाध्यायी ५.४.२५ ) इति यत्प्रत्ययः। षट् तु त्रिष्वर्ध्यमर्घार्थे पाद्यं पादाय वारिणि इत्यमरः (अमरकोशः २.७.१० ) । अर्ध्यस्यानुपदन्वक्। अर्ध्यस्वीकारानन्तरमित्यर्थथः। प्रतिगृह्णन्तौ स्वीकुर्वन्तौ पदस्य पश्चादनुपदम्। पश्चादर्थेऽव्ययीभावः। अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् इत्यमरः (अमरकोशः २.७.१० )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ग्रा मे ष्वात्मवि सृ ष्टेषु
यू चि ह्नेषुज्व नाम्
मो घाःप्रति गृ ह्ण न्ता
र्ध्यानु माशि षः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.