१.४०
परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु ।
मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥
सञ्जीविनीटीका (मल्लिनाथः) परस्परेति॥ विश्रम्भाददूरं समीपं यथा भवति तथोज्झितं वर्त्म यैस्तेषु । स्यन्दनाबद्धदृष्टिषु स्यन्दने रथ आबद्धाऽऽसञ्जिता दृष्टिर्नेत्रं यैस्तेषु। दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि इति हलायुधः। कौतुकवशाद्रथासक्तदृष्टिष्वित्यर्थः। मृग्यश्च मृगाश्च मृगाः। पुमान्स्त्रिया (अष्टाध्यायी १.२.६७ ) इत्येकशेषः। ते।ां द्वन्द्वेषु मिथुनेषु। स्त्रीपुंसौ मिथुनं द्वन्द्वम् इत्यमरः (अमरकोशः २.५.४१ ) । परस्पराक्ष्णां सादृश्यं पश्यन्तौ। द्वन्द्वशब्दसामर्थ्यान्मृगीषु सुदक्षिणाक्षिसादृश्यं दिलीपो दिलीपाक्षिसादृश्यं च मृगेषु सुदक्षिणेत्येवं विवेक्तव्यम् ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्प राक्षि सा दृश्य
दू रोज्झिर्त्मसु
मृ द्व न्द्वेषु श्य न्तौ
स्यन्द नाद्ध दृष्टिषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.