१.३६
स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमाश्रितौ ।
प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥
सञ्जीविनीटीका (मल्लिनाथः) स्निग्धेति॥ स्निग्धो मधुरो गम्भीरो निर्घोषो यस्य तमेकं स्यन्दनं रथम्। प्रावृषि भवः प्रावृषेण्यः। प्रावृष एण्यः (अष्टाध्यायी ४.३.१७ ) इत्येण्यप्रत्ययः। तं प्रावृषेण्यं पयोवाहं मेघं विद्युदैरावताविव। आस्थितावारूढौ। जग्मतुरिति पूर्वेण संबन्धः। इरा आपः। इरा भूवाक्सुराप्सु स्यात् इत्यमरः। इरावान् समुद्रः। तत्र भव ऐरावतोऽभ्रमातङ्गः। ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः इत्ममरः। अभ्रमातङ्गत्वाञ्चाभ्रस्थत्वादभ्ररूपत्वात् इति क्षीरस्वामी। अत एव मेघारोहणं विद्युत्साहचर्यं च घटये। किंच विद्युत ऐरावतसाहचर्यादेवैरावतीसंज्ञा। ऐरावतस्य स्त्रयैरावतीति क्षीरस्वामी। तस्मात्सुष्ठूक्तं विद्युदैरावताविवेति। एकरथारोहणोक्त्या कार्यसिद्धिबीजं दंपत्योरत्यन्तसौमनस्यं सूचयति ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्निग्ध म्भी नि र्घो
मे कं स्यन्द माश्रि तौ
प्रावृ षे ण्यं यो वा हं
विद्यु दै रा तावि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.