१.३
मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् ।
प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ॥
सञ्जीविनीटीका (मल्लिनाथः) मन्द इति॥ किं च मन्दो मूढः। मूढाल्पापटुनिर्भाग्या मन्दाः स्युः इत्यमरः (अमरकोशः ३.३.१०२ ) । तथापि कवियशःप्रार्थी। कवीनां यशः काव्यनिर्माणेन जातं तत्प्रार्थनाशीलोऽहं प्रांशुनोन्नतपुरुषेण लभ्ये प्राप्ये फले फलविषये लोभादुद्बाहुः फलग्रहणायोच्छ्रितहस्तो वामनः ह्रस्व इव। खर्वो ह्रस्वश्च वामनः इत्यमरः (अमरकोशः २.६.४६ ) । उपहास्यता-मुपहासविषयताम्। ऋहलोर्ण्यत् (अष्टाध्यायी ३.१.१२४ ) इति ण्यत्प्रत्ययः। गमिष्यामि प्राप्स्यामि ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्दःवि शः प्रा र्थी
मि ष्याम्यु हास्य ताम्
प्रांशु भ्ये ले लो भा
दु द्बाहुरि वा नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.