ॠदोरप्
(अष्टाध्यायी ३.३.५७ ) । अकर्तरि च कारके संज्ञायाम्
(अष्टाध्यायी ३.३.१९ ) इति साधुः। सूर्यः प्रभवो यस्य स सूर्यप्रभवो वंशः क्व? अल्पो विषयो ज्ञेयोऽर्थो यस्याः सा मे मतिः प्रज्ञा च क्व? द्वौ क्व
शब्दौ महदन्तरं सूचयतः। सूर्यवंशमाकलयितुं न शक्नोमीत्यर्थः। तथा च तद्विषयप्रबन्धनिरूपणं तु दूरापास्तमिति भावः। तथा हि-दुस्तरं तरितुमशक्यम्। ईषद्दुःसुषु-
(अष्टाध्यायी ३.३.१२६ ) इत्यादिना खल्प्रत्ययः। सागरं मोहादज्ञानात् उडुपेन प्लवेन। उडुपं तु प्लवः कोलः
इत्यमरः (अमरकोशः १.१०.११ ) । अथवा, -चर्मावनद्धेन पानपात्रेण। चर्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत्
इति सज्जनः। तितीर्षुस्तरितुमिच्छुः। अस्मि भवामि। तरतेः सन्नन्तादुप्रत्ययः। अल्पसाधनैरधिकारम्भोन सुकर इति भावः। इदं च वंशोत्कर्षकथं स्वप्रबन्धमहत्त्वार्थमेव। तदुक्तम्-प्रतिपाद्यमहिम्ना च प्रबन्धो हि महत्तरः
इति ॥
१ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
---|---|---|---|---|---|---|---|
क्व | सू | र्य | प्र | भ | वो | वं | शः |
क्व | चा | ल्प | वि | ष | या | म | तिः |
ति | ती | र्षु | र्दु | स्त | रं | मो | हा |
दु | डु | पे | ना | स्मि | सा | ग | रम् |