१.२७
न किलानुययुस्तस्य राजानो रक्षितुर्यशः ।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥
सञ्जीविनीटीका (मल्लिनाथः) न किलेति॥ राजानोऽन्ये नृपा रक्षितुर्भयेभ्यस्त्त्रातुः। तस्य राज्ञो यशो नानुययुः किल नानुचक्रुः खलु। कुतः? यद्यस्मात्कारणात् तस्करता चौर्यं परस्वेभ्यः परधनेभ्यः स्वविषयभूतेभ्यो व्यावृत्ता सती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता। अपहार्यान्तराभावात् तस्कर शब्द एवापहृत इत्यर्थः। अथवा, -अत्यन्तासत्यपि ह्यृर्थे ज्ञानं शब्दः करोति हि इति न्यायेन शब्दे स्थिता स्फुरिता, न तु स्वरूपतोऽस्तीत्यर्थः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
कि लानु यु स्तस्य
रा जा नोक्षि तुर्य शः
व्या वृ त्तात्प स्वे भ्यः
श्रु तौस्क तास्थि ता
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.