१.२५
स्थित्यै दण्डयतो दण्ड्यान्परिणेतुः प्रसूतये ।
अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥
सञ्जीविनीटीका (मल्लिनाथः) स्थित्या इति॥ दण्डमर्हन्तीति दण्ड्याः। दण्डादिभ्यो यत् (अष्टाध्यायी ५.१.३६ ) इति यप्रत्ययः। अदण्ड्यान्दण्डयन्राजा दण्ड्यन्। अयशो महदाप्नोति नरकं चैव गच्छति॥(मनु.८।१२८) इति शास्त्त्रवचनात्। तान् दण्ड्यानेव स्थित्यै लोकप्रतिष्ठायै दण्डयतः शिक्षयतः। प्रसूतये संतानायैव परिणेतुर्दारान्परिगृह्णतः। मनीषिणो विदुषः। दोषज्ञस्येति यावत्। विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषो इत्यमरः (अमरकोशः २.७.५ ) । तस्य दिलीपस्यार्थकामावपि धर्म एवाऽऽस्तां जातौ। अस्तेर्लङ्। अर्थकामसाधनयोर्दण्डविवाहयोर्लोकस्थापनप्रजोत्पादनरूपधर्मार्थत्वेनानुष्ठानादर्थकामावपि धर्मशेषतामापादयन्स राजा धर्मोत्तरोऽभूदित्यर्थः। आह च गौतमः(९।१०)-न पूर्वाह्णमध्यंदिनापराह्णानफलान्कुर्यात्। यथाशक्ति धर्मार्थकामेभ्यस्तेषु धर्मोत्तरः स्यात् ॥ इति ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्थि त्यैण्ड तो ण्ड्या
न्परि णे तुःप्र सू ये
प्यर्थ का मौ स्या स्तां
र्म नीषि णः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.