१.२४
प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।
स पिता पितरत्त्तसां केवलं जन्महेतवः ॥
सञ्जीविनीटीका (मल्लिनाथः) प्रजानामिति॥ प्रजायन्त इति प्रजा जनाः। उपसर्गे च संज्ञायाम् (अष्टाध्यायी ३.२.९९ ) इति डप्रत्ययः। प्रजा स्यात्संततौ जने इत्यमरः। तासां विनयस्य शिक्षाया आधानात् करणात्। सन्मार्गप्रवर्तनादिति यावत्। रक्षणाद्भयहेतुभ्यस्त्त्राणात्। आपन्निवारणादिति यावत्। भरणादन्नपादादिभिः पोषणादपि। अपिः समुञ्चये। स राजा पिताऽभूत्। तासां पितरस्तु जन्महेतवो जन्म मात्रकर्तारः केवलमुत्पादका एवाभूवन्। जननमात्र एव पितॄणां व्यापारः। सदा शिक्षारक्षणादिकं तु स एव करोतीति तस्मिन्पितृत्वव्यपदेशः। आहुश्च -स पिता यस्तु पोषकः इति ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र जा नांवि या धा ना
द्रक्ष णाद्भ णापि
पि तापित्त्त सां
के लंन्म हे वः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.