१.२३
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।
तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना ॥
सञ्जीविनीटीका (मल्लिनाथः) अनाकृष्टस्येति॥ विषयैः शब्दादिभिः। रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी इत्यमरः (अमरकोशः १.५.८ ) । अनाकृष्टस्यावशीकृतस्य विद्यानां वेदवेदाङ्गादीनां पारदृश्वनः पारमन्तं दृष्टवतः। दृशेः क्वनिप्। धर्मे रतिर्यस्य तस्य राज्ञो जरसा जरया विना। विस्रसा जरा इत्यमरः (अमरकोशः १.५.८ ) षिद्भिदादिभ्योऽङ् (अष्टाध्यायी ३.३.१०४ ) इत्यङ्प्रत्ययः। जराया जरसन्यतरस्याम् (अष्टाध्यायी ७.२.१०१ ) इति जरसादेशः। वृद्धत्वं वार्धकमासीत्। तस्य यूनोऽपि विषयवैराग्यादिज्ञानगुणसंपत्त्या ज्ञानतो वृद्धत्वमासीदित्यर्थः। नाथस्तु-चतुर्विधं वृद्धत्वमिति कृत्वा अनाकृष्टस्य इत्यादिना विशेषणत्रयेण वैराग्यज्ञानशीलवृद्धत्वान्युक्तानीत्यवोचत् ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ना कृ ष्टस्यवि यै
र्वि द्या नां पा दृश्व नः
स्यर्म ते रा सी
द्वृ द्ध त्वं सावि ना
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.