१.२२
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥
सञ्जीविनीटीका (मल्लिनाथः) ज्ञान इति॥ ज्ञाने परावृत्तान्तज्ञाने सत्यपि मौनं वाङ्नियमनम्। यथाह कामन्दकः-नान्योपतापि वचनं मौनं व्रतचरिष्णुता इति। शक्तौ प्रतीकारसामर्ध्येऽपि क्षमाऽपकारसहनम्। अत्र चाणक्यः-शक्तानां भूषणं क्षमा इति। त्यागे वितरणे सत्यपि श्लाघाया विकत्थनस्य विपर्ययोऽभावः। अत्राह मनुः (४।२३६)-न दत्त्वा परिकीर्तयेत् इति। इत्थं तस्य गुणा ज्ञानादयो गुणैर्विरुद्धैर्मौनादिभिः अनुबन्धित्वात्सहचारित्वात्। सह प्रसवो जन्म येषां ते सप्रसवाः सोदरा इवाभूवन्। विरुद्धा अपि गुणास्तस्मिन्नविरोधेनैव स्थिता इत्यर्थः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञा ने मौ नंक्ष मा क्तौ
त्या गे श्ला घाविर्य यः
गु णागु णानु न्धि त्वा
त्तस्यप्र वा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.