१.२१
जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ॥
सञ्जीविनीटीका (मल्लिनाथः) जुगोपेति॥ अत्रस्तोऽभीतः सन्। त्रस्नौ भीरुभीरुकभीलुकाः इत्यमरः (अमरकोशः ३.१.२२ ) । त्रासोपाधिमन्तरेणैव त्रिवर्गसिद्धेः प्रथमसाधनत्वादेवाऽऽत्मानं शरीरं जुगोप रक्षितवान्। अनातुरोऽरुग्ण एव धर्मं सुकृतं भेजे। अर्जितवानित्यर्थः। अगृध्नुरगर्धनशील एवार्थमाददे स्वीकृतवान्। गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक्समौलोलुपलोल्लभौ। इत्यमरः (अमरकोशः ३.१.२२ ) त्रसिगृधिधृषिक्षिपेः क्नुः (अष्टाध्यायी ३.२.१४० ) इति क्नुप्रत्ययः। असक्त आसक्तिरहित एव सुखमन्वभूत् ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
जु गो पा त्मा त्र स्तो
भे जेर्म नातु रः
गृध्नु रा दे सोऽर्थ
क्तःसुन्व भूत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.