१.२०
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥
सञ्जीविनीटीका (मल्लिनाथः) तस्येति॥ संवृतमन्त्रस्य गुप्तविचारस्य। वेदभेदे गुप्तवादे मन्त्रः इत्यमरः (अमरकोशः ३.३.१७५ ) । शोकहर्षादिसूचको भ्रुकुटीमुखरागादिराकारः। इङ्गितं चेष्टितं हृदयगतविकारो वा। इङ्गितं हृद्गतो भावो बहिराकार आकृतिः इति सज्जनः। गूढे आकारेङ्गिते यस्य। स्वभावचापलाद्भ्रमपरम्परया मुखरागादिलिङ्गैर्वाऽतृतीयगामिमन्त्रस्य तस्य। प्रारभ्यन्त इति प्रारम्भाः सामाद्युपायप्रयोगाः। प्राक्इत्यव्ययेन पूर्वजन्मोच्यते। तत्र भवाः प्राक्तनाः। सायंचिरं- (अष्टाध्यायी ४.३.२३ ) इत्यादिना ट्युल्प्रत्ययः। संस्काराः पूर्वकर्मवासना इव फलेन कार्येण अनुमेया अनुमातुं योग्या आसन्। अत्र याज्ञवल्क्यः(आचार.१३।३४४)-मन्त्रमूलं यतो राज्यमतो मन्त्रं सुरक्षितम् । कुर्याद्यथा तन्न विदुः कर्मणामा फलोदयात् ॥ इति ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्य संवृ न्त्रस्य
गू ढा का रेङ्गिस्य
लानु मे याः प्रा म्भाः
सं स्का राः प्राक्त ना
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.