१.१९
सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् ।
शास्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ॥
सञ्जीविनीटीका (मल्लिनाथः) सेनेति॥ तस्य राज्ञः सेना चतुरङ्गबलम्। परिच्छाद्यतेऽनेनेति परिच्छद उपकरणं बभूव। छत्रचामरादितुल्यमभूदित्यर्थः। पुंसि संज्ञायां घः प्रायेण (अष्टाध्यायी ३.३.११८ ) इति घप्रत्ययः। छादेर्घोऽव्द्युपसर्गस्य (अष्टाध्यायी ६.४.९६ ) इत्युपधाह्रस्वः। अर्थस्य प्रयोजनस्य तु साधनं द्वयमेव। शास्त्त्रेष्वकुण्ठिताऽव्याहता बुद्धिः। व्यापृताइत्यपि पाठः। धनुष्यातताऽऽरोपिता। मौर्वी ज्या च। मौर्वी ज्याशिञ्जिनी गुणः इत्यमरः। नीतिपुरः सरमेव तस्य शौर्यमभूदित्यर्थः॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
से ना रिच्छ स्तस्य
द्व मे वार्थ सा नम्
शा स्रेष्व कुण्ठि ता बुद्धि
र्मौ र्वीनुषि चा ता
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.