वागर्थाविव
इत्येकं पदम् । इवेन सह नित्यसमासो विभक्त्यलोपश्च पूर्वपदप्रकृतिस्वरत्वं चेति वक्तव्यम्, एवमन्यत्रापि द्रष्टव्यम्। वागर्थाविव शब्दार्थाविव, संपृक्तौ । नित्यसंबद्धावित्यर्थथः। नित्यसंबद्धयोरुपमानत्वेनोपादानात नित्यः शब्दार्थसंबन्धः
इति मीमांसकाः। जगतो लोकस्य पितरौ। माता च पिता च पितरौ, पिता मात्रा
(अष्टाध्यायी १.२.७० ) इति द्वन्द्वैकशेषः। मातापितरौ पितरौ मातरपितरौ प्रसू जनयितारौ
इत्यमरः। एतेन शर्वशिवयोः सर्वजगज्जनकतया वैशिष्ट्यमिष्टार्छप्रदानशक्तिः परमकारुणिकत्वं च सूच्यते। पर्वतस्यापत्यं स्त्री पार्वती। तस्यापत्यम्
(अष्टाध्यायी ४.१.९२ ) इच्यण्, टिङ्ढाणञ्-
(अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप्। पार्वती च परमेश्वरश्च पार्वतीपरमेश्वरौ। परम
शब्दः सर्वोत्तमत्वद्योतनार्थः। मातुरभ्यर्हितत्वादल्पाक्षरत्वाञ्च पार्वती
शब्दस्य पूर्वनिपातः। वागर्थप्रतिपत्तये शब्दार्थयोः सम्यग्ज्ञानार्थं वन्देऽभिवादये। अत्रोपमालंकारः स्फुट एव। तथोक्तम्- स्वतः सिद्धेन भिन्नेन संपन्नेन च धर्मतः। साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकगोपमा ॥
इति। प्रायिकश्चोपमालंकारः कालिदासोक्तकाव्यादौ भूदेवताकस्य सर्वगुरोर्मगणस्य प्रयोगाच्छुभलाभः सूच्यते। तदुक्तम्-शुभदो मो भूमिमयः
इति। वकारस्यामृतबीजत्वात्प्रचयगमनादिसिद्धिः ॥
१ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
---|---|---|---|---|---|---|---|
वा | ग | र्था | वि | व | सं | पृ | क्तौ |
वा | ग | र्थ | प्र | ति | प | त्त | ये |
ज | ग | तः | पि | त | रौ | व | न्दे |
पा | र्व | ती | प | र | मे | श्व | रौ |