१.१४

निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्व-देवताम् ।
निक्षेपी म्रियते तुभ्यं प्रदास्याम्युपयाचितम् ॥

अन्वयः

निक्षेपे हर्म्ये पतिते (सति), श्रेष्ठी स्व-देवताम् स्तौति (यत्) निक्षेपी म्रियते (चेत्), तुभ्यम् उपयाचितम् प्रदास्यामि।

English Summary

When a deposit (kept in his house) is lost, the merchant praises his deity (praying), "If the depositor dies, I will give you the promised offering." This illustrates the merchant's greed and dishonesty, hoping for the depositor's death to avoid returning the deposit.

पदच्छेदः

निक्षेपेनिक्षेप (७.१) in the deposit
पतितेपतित (√पत्+क्त, ७.१) lost
हर्म्येहर्म्य (७.१) in the house
श्रेष्ठीश्रेष्ठिन् (१.१) the merchant
स्तौतिस्तौति (√स्तु कर्तरि लट् (परस्मै.) प्र.पु. एक.) praises
स्व-देवताम्स्व–देवता (२.१) his own deity
निक्षेपीनिक्षेपिन् (१.१) the depositor
म्रियतेम्रियते (√मृ कर्तरि लट् (आत्मने.) प्र.पु. एक.) dies
तुभ्यम्युष्मद् (४.१) to you
प्रदास्यामिप्रदास्यामि (प्र√दा कर्तरि लृट् (परस्मै.) उ.पु. एक.) I will give
उपयाचितम्उपयाचित (२.१) vowed offering

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नि क्षे पेति ते र्म्ये
श्रे ष्ठी स्तौ तिस्व दे ताम्
नि क्षे पीम्रि ते तु भ्यं
प्र दा स्याम्यु याचि तम्