१६.४६

सकौतुकागारमगात्पुरंध्रिभिः सहस्ररन्ध्रीकृतमीक्षितुं ततः ।
अधात्सहस्राक्षतनुत्रमित्रतामधिष्ठितं यत्खलु जिष्णुनामुना ॥

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
कौतु का गा गात्पु रंध्रि भिः
स्र न्ध्रीकृ मीक्षि तुं तः
धात्स स्राक्ष नुत्र मित्र ता
धिष्ठि तंत्खलु जिष्णु नामु ना