१२.८७

प्रशंसितुं संसदुपान्तरञ्जिनं श्रिया जयन्तं जगतीश्वरं जिनम् ।
गिरः प्रतस्तार पुरावदेव ता दिनान्तसंध्यासमयस्य देवता ॥

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
प्र शंसि तुं संदु पान्तञ्जि नं
श्रि या न्तं तीश्व रंजि नम्
गि रःप्र स्तापु रा दे ता
दि नान्त सं ध्यास्य दे ता