११.९१

निःशङ्कमङ्कुरिततां रतिवल्लभस्य देवः स्वचन्द्रकिरणामृतसेचनेन ।
तत्रावलोक्य सुदृशां हृदयेषु रुद्रः तद्देहदाहफलमाह स किं न विद्मः ॥

छन्दः

वसन्ततिलका [१४: तभजजगग]

छन्दोविश्लेषणम्

१०१११२१३१४
निःङ्कङ्कुरि तांतिल्लस्य
दे वःस्वन्द्रकि णामृ से ने
त्रा लोक्यसुदृ शांहृ येषु रु द्रः
द्दे दा मा किं वि द्मः