९.९
उदयमस्तमयं च रघूद्वहादुभयमानशिरे वसुधाधिपाः ।
स हि निदेशमलङ्घयतामभूत्सुहृदयोहृदयः प्रतिगर्जताम् ॥
सञ्जीविनीटीका (मल्लिनाथः) उदयमिति॥ वसुधाधिपा राजानः। उद्वहतीत्युद्वहो नायकः। पचाद्यच्। रघूणामुद्वहो रघुनायकः। तस्माद्रघुनायकादुदयं बृद्धिम्। अस्तमयं नाशं च। इत्युभयमानशिरे लेभिरे। कुतः? हि यस्मात्, स दशरथो निदेशमाज्ञामलङ्घ्यताम्। शोभनं हृदयमस्येति सुहृन्मित्रमभूत् सुहृद्दुर्हृदौ मित्रामित्रयोः (अष्टाध्यायी ५.४.१५० ) इति निपातः। प्रतिगर्जतां प्रतिस्पर्धिनाम्। अय इव हृदयं यस्येति अयोहृदयः कठिनचित्तोऽभूत्। आज्ञाकारिणो रक्षति, अन्यान्मारयतीत्यर्थः ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
स्त यं घूद्व हा
दु माशि रेसु धाधि पाः
हिनि देङ्घ ता भू
त्सुहृ योहृ यःप्रतिर्ज ताम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.