९.३३
अभिनयान्परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा ।
अमदयत्सहकारलता मनः सकलिका कलिकामजितामपि ॥
सञ्जीविनीटीका (मल्लिनाथः) अभिनयानिति॥ अत्र चूतलताया नर्तकीसमाधिरभिधीयते। अभिनयानर्थव्यञ्जकान्व्यापारान्। व्यञ्जकाभिनयौ समौ इत्यमरः (अमरकोशः १.७.१७ ) । परिचेतुमभ्यसितुमुद्यतेव स्थिता। कुतः? मलयमारुतेन कम्पितपल्लवा। पल्लवशब्देन हस्तो गम्यते। सकलिका सकोरका। कलिका कोरकः पुमान् इत्यमरः (अमरकोशः १.७.१७ ) । सहकारलता। कलिः कलहो द्वेष उच्यते। कलिः स्यात्कलहे शूरे कलिरन्त्ययुगे युधिइति विश्वः। कामो रागः। तज्जितामपि। जितरागद्वेषाणामपीत्यर्थः। मनोऽमदयत् ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
भि यान्परि चेतुमि वोद्य ता
मारुम्पिल्ल वा
त्स का ता नः
लि कालि काजि तापि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.