९.२१
अजिनदण्डभृतं कुशमेखलां यतगिरं मृगश्रृङ्गपरिग्रहाम् ।
अधिवसंस्तनुमध्वरदीक्षितामसमभासमभासयदीश्वरः ॥
सञ्जीविनीटीका (मल्लिनाथः) अजिनेति॥ ईश्वरो भगवानष्टमूर्तिरजिनं कृष्णाजिनं दण्डमौदुम्बरं बिभर्तीति तमजिनदण्डभृतम्। कृष्णाजिनं दीक्षयति। औदुम्बरं दीक्षितदण्डं यजमानीय प्रयच्छति इति वचनात्। कुशमयी मेखला यस्यास्तां कुशमेखलाम्। शरमयी मौञ्जी वा मेखला। तया यजमानं दीक्षियतीति विधानात्। प्रकृते कुशग्रहणं क्वचित्प्रतिनिधिदर्शनात्कृतम्। यतगिरं वाचंयमम्। वाचं यच्छति इति श्रुतेः। मृगशृङ्गं परिग्रहः कण्डूयनसाधनं यस्यास्ताम्। कृष्णविषणया कण्डूयते इति श्रुतेः। अध्वरदीक्षितां संस्कारविशेषयुक्तां तनुं दाशरथीमधिवसन्नधितिष्ठन्सन्। असमा भासो दीप्तयो यस्मिन्कर्मणि तद्यथा तथा अभासयद्भासयति स्म ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
जिण्डभृ तंकु मे लां
गि रंमृ श्रृङ्ग रिग्र हाम्
धि संस्तनुध्व दीक्षि ता
भा भा दीश्व रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.