९.२०
क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः ।
कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसासरयूतटाः ॥
सञ्जीविनीटीका (मल्लिनाथः) क्रतुष्विति॥ क्रतुष्वश्वमेधेषु विसर्जितमौलिनाऽवरोपितकिरीटिन। यावद्यज्ञमध्वर्युरेव राजा भवति इति राज्ञश्चिह्नत्यागविधानादित्यभिप्रायः। मौलिः किरीटे धम्मिल्ले इति विश्वः। भुजसमाहृतदिग्वसुना भुजार्जितदिगन्तसंपदा। अनेन क्षत्रियस्य विजितत्वमुक्तम्। नियमार्जितधनत्वं सद्विनियोगकारित्वं च सूच्यते। वितमसा तमोगुणरहितेन तेन दशरथेन। तमसा च सरयू नद्यौ। तयोस्तटः कनकयूपानां समुच्छ्रयेण समुन्नमनेन शोभिनः कृताः। कनकमयत्वं च यूपानां शोभार्थं विध्यभावात्। हेमयूपस्तु शोभिकः इति यादवः ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
क्रतुषु तेविर्जि मौलि ना
भु माहृ दिग्वसु नाकृ ताः
यू मुच्छ्र शोभि नो
वि सा सा यू टाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.