९.१८
प्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः ।
उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः ॥
सञ्जीविनीटीका (मल्लिनाथः) प्रियतमाभिरिति॥ अरीन्घ्रन्तीत्यरिहणो रिपुघ्नाः। हन्तेः क्विप्। ब्रह्मभ्रूणवृत्रेषु क्विप् इति नियमस्य प्रायिकत्वात्। यथाह न्यासकारः-प्रायिकश्चायं नियमः क्वचिदन्यस्मिन्नप्युपपदे दृश्यते मधुहा। प्रायिकत्वं च वक्ष्यमाणस्य बहुलग्रहणस्य पुरस्तादपकर्षाल्लभ्यते इति। तेषु योगेषूपायेषु विचक्षणो दक्षः। योगः संनहनोपायध्यानसंगतियुक्तिषु इत्यमरः। इन्द्रेऽपि योज्यमेतत्। असौ दशरथस्तिसृभिः प्रियतमाभिः सह। प्रजा विनिनीषुर्विनेतुमिच्छुस्तिसृभिः शक्तिभिः प्रियतमाभिः सह। प्रजा विनिनीषुर्विनेतुमिच्छुस्तिसृभिः शक्तिभिः प्रभुमन्त्रोत्साहशक्तिभिरेव सह भुवमुपगतो हरिहय इन्द्र इव। बभौ ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
प्रि माभि सौतिसृ भिर्ब भौ
तिसृभि रेभु वंक्ति भिः
तोविनि नीषुरिप्र जा
रि योऽरि योविक्ष णः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.