८.४३
विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् ।
अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥
सञ्जीविनीटीका (मल्लिनाथः) विललापेति॥ सोऽजः सहजां स्वाभाविकीमपि धीरतां धैर्यमपहाय विप्रकीर्य बाष्पेण कण्ठगतेन गद्गदं विशीर्णाक्षरं यथा तथा ध्वनिमात्रानुकारिगद्गदशब्दैर्विललाप प्ररिदेवितवान्। विलापः परिदेवनम् इत्यमरः (अमरकोशः १.६.१६ ) । अभितप्तमग्निना संतप्तमयो लोहमचेतनमपि मार्दवं मृदुत्वमवैरत्वं च भजते प्राप्नोति। शरीरिषु देहिषु। अभिसंतप्तेष्विति शेषः। विषये कैव कथा वार्ता? अनुक्तसिद्धमित्यर्थः ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
वि ला बाष्पद्ग दं
जाप्य हा धी ताम्
भिप्त योऽपि मार्द वं
ते कै था रीरिषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.