८.४१
प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविप्लवात् ।
स निनाय नितान्तवत्सलः परिगृह्योचितमङ्कमङ्गनाम् ॥
सञ्जीविनीटीका (मल्लिनाथः) प्रतीति॥ अथ सत्त्वस्य चैतन्यस्य विप्लवाद्विनाशाद्धेतोः। द्रव्यासुव्यवसायेषु सत्त्वम् इत्यमरः। प्रतियोजयितव्या तन्त्रीभिर्योजनीया। न तु योजिततन्त्रीत्यर्थः। या वल्लकी वीणा। तस्याः समाऽवस्था दशा यस्यास्तामङ्गनां वनितां नितान्तवित्सलोऽतिप्रेमवान् सोऽजः परिगृह्य हस्ताभ्यां गृहीत्वोचितं परिचितमङ्कमुत्सङ्गं निनाय नीतवान्। वल्लकीपक्षे तु-सत्त्वं तन्त्रीणामवष्टम्भकः शलाकाविशेषः ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
प्रति योयिव्यल्ल की
स्थात्त्व विप्ल वात्
नि नानि तान्तत्स लः
रि गृ ह्योचिङ्कङ्ग नाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.