८.२
दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् ।
तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ॥
सञ्जीविनीटीका (मल्लिनाथः) दुरितैरिति॥ नृपसूनवो राजपुत्रा यद्राज्यं दुरितैरपि विषप्रयोगादिनिषिद्धोपायैरपि आत्मसात् स्वाधीनम्। तदधीनवचने (अष्टाध्यायी ५.४.५४ ) इति सातिप्रत्ययः। कर्तुं प्रयतन्ते हि। प्रवर्तन्त एवेत्यर्थः। हि शब्दोऽवधारणे। हि हेताववधारेण इत्यमरः (अमरकोशः ३.३.२७२ ) । उपस्थितं स्वतःप्राप्तं तद्राज्यम्। अजः पितुराज्ञेति हेतोरग्रहीत् स्वीचकार। भोगतृष्णया तु नाग्रहीत् ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
दुरि तैपिर्तु मात्म सा
त्प्र न्तेनृ सू वोहि यत्
दुस्थिग्र ही जः
पितु रा ज्ञेति भो तृष्ण या
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.