८.१५
प्रशमस्थइतपूर्वपार्थिवं कुलमभ्युद्यतनूतनेश्वरम् ।
नभसा निभृतेन्दुना तुलामुदितार्केण समारुरोह तत् ॥
सञ्जीविनीटीका (मल्लिनाथः) प्रशमेति॥ प्रशमे स्थितः पूर्वपार्थिवो रघुर्यस्य तत्। अभ्युद्यतोऽभ्युदितो नूतनेश्वरोऽजो यस्य तत्। प्रसिद्धं कुलं निभृतेन्दुनाऽस्तमयासन्नचन्द्रेणोदितार्केण प्रकटितसूर्येण च नभसा तुलां सादृश्यं समारुरोह प्राप। न च नभसा तुलाम् इत्यत्र तुल्यार्थैः- (अष्टाध्यायी २.३.७२ ) इत्यादिना प्रतिषेधस्तृतीयायाः। तस्य सदृशवाचितुला शब्दविषयत्वात्। कृष्णस्य तुला नास्ति इति प्रयोगात्; अस्य च सादृश्यवाचित्वात् ॥
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.