८.१४
स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः ।
समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ॥
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ स रघुः किलान्त्यमाश्रमं प्रव्रज्यामाश्रितः पुरान्नगराद्बहिरावसथे स्थाने निवसन्नविकृतेन्द्रियः। जितेन्द्रियः सन्नित्यर्थथः। अत एव स्नुषयेव वध्वेव पुत्रभोग्यया न स्वभोग्यया। श्रिया समुपास्य शुश्रूषितः। जितेन्द्रियस्य तस्य स्नुषयेव श्रियापिपुष्पफलोदकाहरणादिशुश्रूषाव्यतिरेकेण न किंचिदपेक्षितमासीदित्यर्थः॥ अत्र यद्यपिब्राह्मणाः प्रव्रजन्तिइति श्रुतेः।आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्(६।३८) इति मनुस्मरणात्। मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम्। बाहुजातोरुजातानामयं धर्मो न विद्यते॥इति निषेधाञ्च ब्राह्मणस्यैव प्रव्रज्या न क्षत्रियादेरित्याहुः। तथापियदहरेव विरजेत्तदहरेव प्रव्रजेत्इत्यादिश्रुतेस्त्रैवर्णिकसाधारण्यात्।त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाःइति सूत्रकारवचनात्।ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद्गृहात्(मनु.१०।११७) इति स्मरणात्। मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम्। बाहुजातोरुजातानां त्रिदण्डं न विधीयते॥इति निषेधस्य त्रिदण्डविषयत्वदर्शनाञ्च। कुत्रचिद्ब्राह्मणपदस्योपलक्षणमाचक्षाणाः केचित्त्रैवर्णिकाधिकारं प्रतिपेदिरे। तथा सतिस किलाश्रममन्त्यमाश्रितः(८।१४)इत्यत्रापि कवनाप्ययमेव पक्षो विवक्षित इति प्रतीमः। अन्यथा वानप्रस्थाश्रमतया व्याख्याते विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित्`(८।२५) इति वक्ष्यमाणेनानग्निसंस्कारेण विरोधः स्यात्; अग्निसंस्काररहितस्य वानप्रस्थास्यैवाभावात् इत्यलं प्रासङ्गिकेन ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
कि लाश्रन्त्य माश्रि तो
नि न्ना थेपु राद्ब हिः
मु पास्य पुत्र भोग्य या
स्नु ये वाविकृ तेन्द्रि यःश्रि या
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.