७.६३
ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलजं कुमारः ।
तेन स्वहस्तार्जितमेकवीरः पिबन्यशो मूर्तमिवाबभासे ॥
सञ्जीविनीटीका (मल्लिनाथः) तत इति॥ ततः कुमारोऽजः प्रिययेन्दुमत्योपात्तरस आस्वादितमाधुर्ये। अतिश्लाघ्य इति भावः। अधरोष्ठे जलजं शङ्खं निवेश्य। जलजं शङ्खपद्मयोःइति विश्वः। दध्मौ मुखमारुतेन पूरयामास। तेनौष्ठनिविष्टेन शङ्खेनैकवीरः स स्वहस्तार्जितं मूर्तं मूर्तिमद्यशः पिबन्निवाबभासे । यशसः शुभ्रत्वादिति भावः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
तःप्रि यो पात्त सेऽध रो ष्ठे
नि वेश्य ध्मौ जंकु मा रः
तेस्व स्तार्जि मे वी रः
पिन्य शो मूर्तमि वा भा से
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.