७.४१
रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः ।
स्वभर्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः ॥
सञ्जीविनीटीका (मल्लिनाथः) रथ इति॥ सान्द्रे प्रवृद्धे रजसि रथो रथाङ्गध्वनिना चक्रस्वनेन विजज्ञे ज्ञातः। नागो हस्ती विलोलानां घण्टानां क्वणितेन नदिन विजज्ञे। आत्मपरावबोधः स्वपरविवेकः। योधानामिति शेषः। स्वभर्तॄणां स्वस्वामिनां नामग्रहणान्नामोञ्चारणाद्बभूव। रजोऽन्धतया सर्वे स्वं परं च शब्दादेवानुमाय प्रजह्रुरित्यर्थः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
थो था ङ्गध्वनि नावि ज्ञे
वि लो ण्टाक्वणि ते ना गः
स्वर्तृ नाग्र णाद्ब भू
सा न्द्रे स्यात्म रा बो धः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.