६.६९
तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी ।
न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्भपदाली ॥
सञ्जीविनीटीका (मल्लिनाथः) तमिति॥ कुमारी। सर्वेष्ववयवेष्वनवद्यमदोषं तमजं प्राप्य। अन्योपगमाद्राजान्तरोपगमाद्व्यावर्तत निवृत्ता। तथा हि-षट्पदानी भृङ्गावलिः। प्रफुल्लतीति प्रफुल्लं विकसितम्। पुष्पितमित्यर्थः। प्रपूर्वात्फुल्लतेः पचाद्यच्। फलतेस्तु प्रफुल्लमिति पठितव्यम्। अनुपसर्गात्- (अष्टाध्यायी ८.२.५५ ) इति निषेधात्। इत्युभयश्चापि न कदाचिदनुपपत्तिरित्युक्तं प्राक्। सहकारं चूतविशेषमेत्य। आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः इत्यमरः (अमरकोशः २.४.३३ ) । वृक्षान्तरं न काङ्क्षति। न हि सर्वोत्कृष्टवस्तुलाभेऽपि वस्त्वन्तरस्याभिलाषः स्यादित्यर्थः॥
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०१११२
तं प्राप्य र्वा वा द्यं
व्यार्त ता न्यो मात्कु मा री
हिप्र फु ल्लं का मेत्य
वृ क्षान्त रं काङ्क्षतिट्भ दा ली
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.